________________
માનત્યાગ પ્રમ
शार्दूलविक्रीडितवृत्तम् जात्यैश्चर्यबलश्रुतान्वयतपोरुपोपलब्धिश्रितं, गर्वं सर्वगुणैकपर्वतपविं मात्मन् कृथाः सर्वथा।
संगं गच्छति यत्र यत्र यदसौ तत्तद्विनाशास्पदं, प्रेत्य प्राणभृतो भवन्त्यभिमतप्राप्तिपहीणाः क्षणात् ।।३७।।
वसंततिलकावृत्तम् औचित्यचारुचरिताम्बुजशीतपादं, सत्कर्मकौशलकुचेलकठोरपादम्
संसेव्यसेवनवनद्रमसामयोनि, मानं विमुञ्च सुकृताम्बुधिकुंभयोनिम् ।।३८।।
अनुष्टुपवृत्तम् विपदां सा गर्वोय-मपूर्वः पर्वतः स्मृतः । प्राप्नुवन्त्यूर्ध्वमूर्धानो, यमारुढा अधोगतिम् ।।३९।।