________________
वसंततिलकावृत्तम् सिद्धांजनं जनितयोगिजनप्रभावं, भावं वदन्ति विदुषां निवहा नवीनम् । सिद्धो भवेन्मनसि संनिहिते यदस्मिन्, पश्यन् जगन्ति मनुजो जगतामदृश्यः ।।३१।।
શોધત્યાગ પ્રમ
शार्दूलविक्रीडितवृत्तम् स्कंधो युद्धमहीरुहस्य कुमते: सौधो निबंधोंऽहसां, योधो दुर्नयभूपतेः कृतकृपारोधोऽप्रबोधो हृदाम् । व्याधो धर्ममूगे वधो धूतिधियां गंधो विपद्वीरुधामंधो दुर्गतिपद्धतौ समुचितः क्रोधो विहातुं सताम् ।।३२।।
वसंततिलकावृत्तम् वायुर्यथा जलमुचां समिधां यथाग्निः, सिंहो यथा करटिनां तमसां यथार्कः ।
हस्ती यथावनिरुहां पयसां यथोष्मः, शक्तस्तथा प्रशमनाय शमो रुषाणाम् ।।३३।।