________________
मालिनीवृत्तम् कमलविजयसञ्ज्ञप्राज्ञपारीन्द्रपाद
द्वयकमलविलासे भृङ्गतां संगतेन । रसिकजनविनोदा सूत्रिता सूक्तिमाला, श्रियमयतु जनानां कण्ठपीठे लुठन्ती
।। १८१।।
वसंततिलकावृत्तम्
सत्सूत्रमौक्तिकमहोदधितुल्यगुम्फः । प्राज्ञेन्दुहेमविजयेन विनिर्मितो यः । आदायसूक्तजलमम्बुधरा इवास्माद्, व्याख्याजुषः क्षितितलं सुखयन्तु सन्तः
।।१८२।।
।। इति श्रीकस्तूरीप्रकरः ।।