________________
अनुष्टुपवृत्तम् अदत्तादानमाहात्म्य-महो वाचामगोचरः। यदर्थमाददानाना-मनर्थोऽभ्येति सदनि ।।१४५।।
બ્રહ્મચર્ય વૃક્રમ
शार्दूलविक्रीडितवृत्तम् दोभा ये जलधेस्तरन्ति सलिलं पद्भ्यां नभःप्रांगणे, ये भ्राम्यन्ति च वारबाणरहिताः कुर्वन्ति ये चाहवम् ।
ये दुष्टामटवीमटन्ति पटवस्ते सन्ति संख्यातिगास्ते केचिच्चलचक्षुषां परिचयैश्चित्तं यदीयं शुचि ।।१४६।।
खद्योतैरिव भानुमांश्च भषणैः कुंभीव जंभद्विषः, सारंगैरिव केसरी मखभुजां भर्तेव दैत्यव्रजैः ।
सौपर्णेय इवोरगैश्च मरुतां स्तोमैरिवस्वर्गिरिर्न स्त्रीभिर्बिभिदे यदीयहृदयं शूराय तस्मै नमः ।।१४७।।