________________
पंचकचतुष्को गतांकमध्ये न गण्येते, ततस्त्रिकद्विकरूपौ द्वावेवगतौ द्वौ च स्वपरिवर्तेनद्धिकरुपेण गुणिता जाताश्चत्वारः पूर्वं चतुर्विशतिमध्ये क्षिप्ता जाता २८॥ द्वितीयपंक्तौ द्रष्टो द्विकोऽत्रापि पंचकचतुष्कयो: प्राग्वत् वर्जितत्वात् एक एव त्रिकरुपोऽको गत: स्वस्वपरिवर्तेनैकरुपेण गुणितो जाता एक एव पूर्वाष्टाविंशतिमध्ये क्षिप्त: जाता एकोनत्रिंशत् प्रथमपंक्तौ तु प्राग्वत् पंचकचतुष्कयोर्जितत्वेन गतोऽक: कोऽपि नास्ति, सर्वमीलने एकोनत्रिंशदेकेनयुतात्रिंशत् तत: इदं त्रिंशत्तम रुपं तथा २३४१५। अयं कतिथोभंग इति-केनापि पृष्टं, अत्रांत्यपंक्तौ पंचकस्य द्रष्टत्वात् न कोऽपि गतोऽक: चतुर्थपंक्तौ प्राक्तनरीत्या पंचकस्य वर्जितत्वाचतुष्कत्रिकद्धिकरुपास्त्रयोऽकागतास्ततस्त्रयः स्वपरिवर्तेन ६ रुपेण गुणिता जाता १८ तृतीयपंक्तौ पंचकस्य वर्जितत्वात् गतोऽको नास्ति एवं द्वितीयप्रथमपंक्त्योरपि ततोऽष्टादश एकयुता जाता १९, अयं एकोनविंशो भंग: तथा २१४५३, अयं कतिथ इति पृष्टे अत्रांत्यपंक्तौत्रिकस्य द्रष्टत्वात् पंचकचतुष्करुपौ द्वौ अंकौ गतौ ततो दौ स्वपरिवर्तेन २४ रुपेण गुणितौ जाता: ४८ चतुर्थपंक्तौ पंचकस्य द्रष्टत्वेन गतोऽको नास्ति, तृतीयपंक्तावपि पंचकस्य प्रोक्तरीत्या वर्जितत्वान्नेकोऽपि गतोऽक द्वितीयपंक्तौ पंचकचतुष्कत्रिकाणामपोदितत्वात् द्विकरुपएक एव मतोंक: स एकेन गुणितोजात: एक एव ४८ मध्य क्षिप्तो जात: एकोनपंचाशदेकयुता जाता पस्चाशत् अयं पंचाशत्तमो भंग इति वाच्यं, एवं सर्वत्र ज्ञेयं ।
गतांकगणनेऽपवादमाहनठु दिविहाणे, जे अंका अंतमाई पंतीसु । पुग्विं ठविया नहि ते, गयंकगणणे गणिति ॥१८॥ व्याख्या-नष्टोद्दिष्टविद्यौ येऽका पश्चानुपूर्व्याऽत्यादिषु पंक्तिषु पूर्वं स्थापिता भवंति,
HAMARA 31
M
INS