________________
॥ ॐ श्रीअनन्तलब्धिनिधानाय श्रीगौतमगणधराय नमः॥ ॥ आगमोद्धारकश्रीमद्आनन्दसागरसूरीश्वरेभ्यो नमः॥
॥श्री जिनकीर्तिसूरिणा विरचिता॥
॥स्वोपज्ञनमस्कारस्तववृत्ति ॥
ॐ नम: सिद्धं । जिनं विश्वत्रयीवंद्य-मभिवंद्य विधीयते। परमेष्ठिसूत्रव्याख्या, गणितप्रक्रियाऽन्विता॥१॥
तत्रादावभिधेयगर्भा समुचितेष्टदेवतानमस्काररूपमंगलप्रतिपादकां गाथामाह
परमेष्ठिनमुक्कारं, थुणामि भत्तीइ तन्नवपयाणं । पत्थार १, भंगसंखा २, नछु ३, दिठ्ठा ४ कहणेणं ॥१॥
व्याख्या परमेष्ठिनोऽहं दादयस्तेषां नमस्कारः श्रुतस्कंधरूपो नवपदाष्टसंपदष्टषष्ट्यक्षरमयो महामंत्रस्तं भक्तया स्तवीमि, तस्य नमस्कारस्य नवसंख्यानां पदानां प्रस्तारो भंगसंख्या नष्टमुद्दिष्टं आदिशब्दानुपूय॑नानुपूर्व्यादिगुणनमहिमा च, एतेषां कथनेन तत्रादौ प्रथमो व्यस्तमपि बहुवक्तव्यं प्रस्तारमुलंघ्य स्वल्पवक्तव्ये भंगपरिमाणे करणमाह
एगाईण पयाणं, गणअंताणं परुप्परं गुणणे । अणुपुन्विप्पमुहाणं, भंगाणं इंति संखाउ ॥२॥
व्याख्या इह गण: स्वाभिमत: पदसमुदाय: तत: एकादीनां पदानाम् दिकत्रिकचतुष्कपंचकादिगणपर्यन्तानां स्थापितानां परस्परं गुणने-ताडने HAMANANE HAINIKANE