________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७० ॥
प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म किलिमतलिमतोक्मं युग्मतिग्मं त्रिसन्ध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् शृङ्गबेरमजिराभ्रपुष्करं तीरमुत्तरमगारनागरे। स्फारमक्षरकुकुन्दुरोदरप्रान्तराणि शिबिरं कलेवरम् सिन्दूरमण्डूरकटीरचामरक्रूराणि दूराररवैरचत्वरम् ।
औशीरपातालमुलूखलार्त्तवे सत्त्वं च सान्त्वं दिवकिण्वपौतवम् ॥ ७२ विश्वं वृशं पलिशमर्पिशकिल्बिषानुतर्षापिषं मिषमृचीषमजीषशीर्षे । पीयूषसाध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च
।। ७३ ॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु स्वाद्वाशु तुम्बुरु कशेरु शलालु चाऽऽलु । संयत् ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम पुंस्त्रीलिङ्गश्चतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गञ्जो भूरुहि बाणपिप्पलौ ॥ ७५ ॥ नाभिः प्राण्यङ्गके प्रधिर्नेमौ क्वचन बलिहे कुटः । श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ।। ७६ ॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः
|| ७७॥ कुम्भ: कलशे तरणिः समुद्रार्कायष्टिषु । भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः
।। ७८ ॥
॥ ७४ ॥
383
For Private And Personal Use Only