SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः । वनाश्रयस्तु काकोलो मद्गुस्तु जलवायसः घूके निशाट: काकारि: कौशिकोलूकपेचकाः । दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । हंसाञ्चक्राङ्गवकाङ्गमानसौक: सितच्छदाः राजहंसास्त्वमी चञ्चचरणैरतिलोहितैः । मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः कादम्बास्तु कलहंसा: पक्षैः स्युरतिधूसरैः । वारला वरला हंसी वारटा वरटा च सा दार्वाघाट: शतपत्रः खञ्जरीटस्तु खञ्जनः । सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरङ्कुरः सारसी लक्ष्मणाऽथ कुङ् क्रौञ्चे चाषे किकीदिविः । चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च । टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः चटको गृहबलिभुक् कलविङ्कः कुलिङ्ककः । योषित्तु तस्य चटका स्त्र्यपत्ये चटका तयोः मपत्ये चाटकै दात्यूहे कालकण्टकः । जलरङ्कुर्जलरज्ञ्जो बके को बकोटवत् बलाहकः स्याद्बलाको बलाका बिसकण्ठिका । भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी श्येनः पत्नी शशादनः ११३ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३८९ ॥ ॥ ३९० ॥ ॥ ३९१ ॥ ॥ ३९२ ॥ ॥ ३९३ ॥ ॥ ३९४ ॥ ॥ ३९५ ॥ ॥ ३९६ ॥ ॥ ३९७ ॥ ॥ ३९८ ॥ ॥ ३९९ ॥ ॥ ४०० ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy