________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अब्दः
क्षणं पलं घटी यामः, दिनमासर्तवोऽयनम् । संवत्सरो युगं कल्पः, कालस्येत्यादयोऽभिधाः वसन्तग्रीष्मवर्षाश्च, शरद्धेमन्त एव च । शिशिरश्चेति विज्ञेया, ऋतवः षद्विमासिकाः संवत्सरो वर्षं, वत्सरो हायनं शरत् । कल्पो युगान्तः संहारः, कल्पान्तः प्रलयः क्षयः दिशा आशा दिशः काष्ठा, हरितः ककुभश्च ताः । चतस्रोऽष्टौ दशधा वा, स्युरिन्द्राद्यास्तदीश्वराः पूर्वाग्नेयी दक्षिणा च नैऋती पश्चिमा तथा । वायवी चोत्तरेशानी, ब्राह्मी नागीति ता दश वारिवाहो घनो मेघः, स्तनयित्नुर्घनाघनः । अभ्रं तडिद्वान् मुदिरो, जलमुक् जलदोम्बुभृत् धाराधरो जलधरो, धूमयोनिर्बलाहकः । जीमूतो वारिदो नभ्राट्, पर्जन्याम्भोधरोम्बुदः विद्युत्सौदामिनी शम्पा, चञ्चला चपला तडित् । ऐरावती क्षणरुचि ह्रदिनी च शतह्रदा गर्जितं स्तनितं गर्जी - रसितं मेघनिस्वनम् । बप्पीहश्चातकः सारं- गः स्तोकको नभोम्बुपः नीलकण्ठः शिखी केकी, मयूरो जलमुक्सुहत् । शिखण्डी बहिणो बर्ही, कलापी च भुजङ्गभुक् परपुष्टय परभृता, ताम्राक्षी कोकिला पिका । मधुरालापिनी श्यामा, कलकण्ठी वनप्रिया
रथाङ्गाह्लश्चक्रवाकः, कोको द्वन्द्वचरश्च सः । यामिनीविरहश्चक्रो, रामशापो निशावियुक्
३४४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ८२ ॥
॥ ८३ ॥
11 28 11
11:24 11
॥ ८६ ॥
॥ ८७ ॥
।। ८८ ।।
1168 11
1180 11
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥