________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इति पञ्चमकाण्डस्य शिलोञ्छोऽयं समर्थितः
षष्ठः काण्ड:
जीवोऽपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि । जीवातुजिवितेऽथायः पुंस्युदन्तोऽपि चायुषि संकल्पे स्याद्विकल्पो ऽपि मनोऽनिन्द्रियमप्यथ । शर्मं सौख्यं पीडा बाधः चर्चा चर्चेऽपि कथ्यते विप्रतीसारोऽनुशयेऽथार्था अपीन्द्रियार्थवत् । सुशीमस्तु सुषीमोऽपि कक्खटे खक्खोऽपि च जरटे जरठोऽम्लेऽम्ब्लो रावो रव इव स्मृतः । निषाद्रो निषदो गर्जो गर्जा भद्रोऽपि मन्द्रवत् आकरो निकरे युग्मे जकुटोऽथ कनीयसि । कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः स्यान्निःशेषमनूनं च खण्डलं चापि खण्डवत् । मलीमसे कल्मषं च निकृष्टे याव्यरेपसी asहं रमणीयं च रम्ये नित्ये सदातनम् । शाश्वतिकं च नेदीय इत्यन्तिकतमे स्मृतम् एकाकिन्यवगणोऽपि प्रागप्यादौ प्रकीर्तितम् । मध्यमे मध्यंदिनं च निरर्गलमनर्गले बहुरूपपृथग्रूपनानाविधाः पृथग्विधे । झम्पा झम्पो व्यवच्छिन्ने छादितं पिहितेऽपि च प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् । बुधैरवमननावगणने अपि कीर्तिते अन्दोलनमपि प्रेङ्खाथोदस्तमप्युदञ्चितम् ।
२७१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १ ॥
॥ २ ॥
॥ ३ ॥
118 11
114 11
॥ ६॥
119 11
|| 2 11
॥९॥
॥ १० ॥
॥ ११ ॥