________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिह्वायां रसना दन्त्य - तालव्यान्तर्गता रसा । रसमातृका रस्ना च रसिका रसनं तथा गले कण्ठः कण्ठी कण्ठं शब्द- समीपयोरपि । अंसे तु स्कन्धः स्कधश्च सान्तं क्लीबमुरोंसयोः सन्धौ तु जत्रु षण्ढे स्यात् तकार - रेफयोगवत् । प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् । कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका । हस्ते करः करिर्हस्तमूले तु मणिबन्धवत्
मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा । अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा । मध्या, ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्नव- पुनर्भवौ करजे नखरस्त्रिषु । नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् प्रादेशो ऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः । तालिका - तालौ चपेटचर्पटश्चपटयेऽपि च
तद्द्वये योजिते सिंहतलः संहतलस्तथा । तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च वितस्ति-खड्गमुष्ट्योश्च कुब्जिताङ्गुलिके करे। प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् । तिर्यक्प्रसारितबाहोर्व्यायामो व्याम व्यामनी
२०२
For Private And Personal Use Only
॥ १६५ ॥
॥ १६६ ॥
॥ १६७ ॥
॥ १६८ ॥
॥ १६९ ॥
॥ १७० ॥
॥ १७१ ॥
॥ १७२ ॥
॥ १७३ ॥
॥ १७४ ॥
॥ १७५ ॥
॥ १७६ ॥