________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्तताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा । तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा तदतद्वस्तु वागेषा तदेवेत्यनुशासति । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः । आह 'च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा | अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः विधेयमीप्सितार्था प्रतिषेध्याविरोधि यत् । तथैवादेययत्वमिति स्याद्वादसंस्थितिः इतीयमाप्तमीमांसा विहिता हितमिच्छता । सम्य मिथ्योपदेशार्थविशेषप्रतिपत्तये जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेर्लवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते
॥ सम्यक्त्व स्तव ॥
जह सम्मत्तसरूवं, परूवियं वीरजिणवरिंदेण । तह कित्तणेण तमहं पुणामि सम्मत्तसुद्धिका
८४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १०८ ॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
॥ ११५ ॥
॥ १ ॥