SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथयति हिततां जलाशयानां, सुभगयतीन्दुरुनिविलासिदोषाम् । प्रकटयति तृषां तपर्तुधूर्तो, विफलितशीतलवारिपानलीलाम् ॥ १३८९ ॥ परिकलितपटीरसङ्गरङ्गश्श्युतततकञ्चुकतुल्यपुष्पराजिः । इह तपसमयस्स लूतवातैः स्तरुगहनेषु फणीव फूत्करोति ॥ १३९० ॥ अतुहिनकिरणप्रतापतुष्टा, किमु न विवृद्धिमगात् तदा दिनश्रीः । मलिनवसनतां च पत्रशाटैः, सुभगसमागमसोन्मदा वनश्रीः।। १३९१ ।। एवंविधे ग्रीष्मकाले, प्रकर्ष मातुलोऽब्रवीत् । गमनं साम्प्रतं वत्स, गृहे साम्प्रतमावयोः ॥ १३९२ ॥ प्रकर्षः प्राह न ग्रीष्मे, गमनावसरोऽधुना। कालोऽयं दहनोऽवैव, तिष्ठ मासद्वयं ततः ॥ १३९३ ॥ वचनं भागिनेयस्य, स्थितः स्वीकृत्य मातुलः । .. घनाडम्बरिणी प्रावृडायाता तिष्ठतोस्तयोः ॥ १३९४ ॥ गर्जन्तः शिखिसंमदध्वनिभरैः संपातिशम्पाङ्कुशा, वेगापातिमिथोमिलध्धनघटासंघट्टघण्टारवाः । मूलोन्मूलितमानिनीजनमनोमानद्रुमश्रेणयो, वाताः शिकरिणः स्फुरन्ति परितः श्च्योतन्मदा वारणाः ॥ १३९५ ।। चक्षुर्विक्षिपति क्षणं यदि तदा नृत्यत्कलापीक्षणान्न प्राप्नोति वने धृति विरहिणी नेत्रे पिधत्ते ततः । तन्नादैश्चकिता श्रुती स्थगयति घ्राणं लतासौरभैमूंर्छामृच्छति संवरीतुमसहा झंझाऽनिलस्पर्शनम् ॥ १३९६ ।। ४१७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy