SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कादम्बयाँ महाटव्यां, गृहीतः परिमोषिभिः । लुप्तं धनं हतः सार्थो, जना बन्दीकृतास्तथा ॥ १०५६॥ तन्मध्ये वर्धनं नीत्वा, पल्ल्यां ते यातनाशतैः । सार्थवाहोऽयमित्युच्चैर्धनार्थमकदर्थयन् (त्रिभिविशेषकम्) ।। १०५७ ।। अयं लम्बनकस्तस्य, गृहजो दासदारकः । नष्ट्वा कथञ्चिदायातो, वृत्तान्तं च न्यवेदयत् ॥ १०५८॥ यदकार्षीत् ततश्चायं, भवता दृष्टमेव तत् । प्रकर्षः प्राह किं त्राणं, प्रलापाद्यैर्भवेदिह ॥ १०५९ ॥ विमर्शः प्राह न त्राणमेतैः कस्यापि जायते । नाटके तु विषादस्य, भवन्त्यभिनयोर्मयः ॥ १०६० ॥ धनदत्तागमे तुष्टा, विषण्णा वर्धनापदि । असमीक्ष्यकृतो ह्येते, किं कुर्वन्तु तपस्विनः ॥ १०६१॥ नैतस्यैव गृहे नाट्यं, वत्स ! हर्षविषादयोः । भवचक्रेऽखिले किन्तु कारणैरपरापरैः ॥ १०६२ ॥ प्रकारा दुःशका वक्तुं, शृङ्गग्राहिकयाऽखिलाः । भवचक्रपुरेऽशेषान्, पथाऽनेन समुन्नय ॥ १०६३ ॥ अवान्तपुरैरेतद् भूरिभिः परिपूरितम् । सुविख्यातं तथाऽप्यत्र, श्रेष्ठं पुरचतुष्टयम् ॥१०६४॥ एकं हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, तुर्यं पापिष्ठपञ्जरम् ॥ १०६५ ॥ तत्रेदं मानवावासं, सदा मोहादिभिर्युतम् । क्वचिदिष्टागमोल्लासि द्वेष्यसंगहतं वचित् ॥ १०६६ ॥ धनप्राप्त्योन्मदं क्वापि, तन्नाशव्याकुलं क्वचित् । दौर्भाग्यसंभृतं क्वापि, क्वापि सौभाग्यशोभनम् ॥ १०६७ ॥ ४03 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy