SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org को वा ज्ञाने समुत्पन्ने पश्चाच्छक्तिं व्यवस्यति । किन्तु तत्र स्थिताप्येषा निमित्तात्सम्प्रतीयते तस्मादर्थक्रियाज्ञानमन्यद्वा समपेक्षते । निश्चयायैव नो तस्या आधानाय विषादिवत् शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः । वदता परतो हन्त त्वयैव ह्युपपादितम् अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । इत्यादि वदतां नैव मुखभङ्गादिसम्भव: आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु अन्यत्र युज्यते चैतन्न ज्ञाने क्षणनाशिनि । नाशादुत्तरकालं हि तस्य वृत्तिः कथं भवेत् कारणेषु गुणज्ञानं नापेक्ष्येतानवस्थितेः । एकत्र दृष्टसंवादे शुद्धिः किं नानुमीयते संवादेनापि संवादो नैव मृग्यो न तद्यतः । अर्थक्रियाभिनिर्वृत्तेः साशङ्का न तदर्थिनः आशङ्कयेत हि यो मोहादजातमपि बाधकम् । भवतेत्यादि गदितं तत एव प्रशस्यते अप्रामाण्यं स्वतो नेति प्रामाण्यं स्वत इष्यते । को विशेषस्त्वया दृष्टो नानवस्था तवापि किम् परायत्तेपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि स्वतस्तच्च व्यवस्थितम् तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित् । जाताशङ्कस्य पूर्वेण साप्यल्पेन निवर्त्तते 392 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २०० ॥ ॥ २०१ ॥ ॥ २०२ ॥ ॥ २०३ ॥ ॥ २०४ ॥ ॥। २०५ ।। ॥ २०६ ॥ ।। २०७ ।। ॥ २०८ ॥ ॥ २०९ ॥ ॥ २१० ॥ ॥ २११ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy