________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|॥ ८
॥
॥ ९॥
॥ १० ॥
॥ ११ ॥
॥१२॥
।। १३ ।।
पित्रोर्मोहनभावस्तु स्वोत्पत्तेः सुविनिश्चितः । तद्वन्नाह्लादसंवित्तिर्मातृभोगप्रसङ्गतः नूनं स चक्षुषेत्यादिवचनमज्ञत्वसूचकम् । सर्ववित्त्वं न बुद्धादेस्तद्वचो बाधसङ्गतेः स्वकृताभोगो विश्वस्य कर्तृत्वं क्षणनाशिता । तदुक्तं बाध्यते यस्मात्प्रत्यक्षादिभिराभवम् अचेतनत्वान्नित्यत्वात्प्रकृतेरकृतागमात् । जापहोमादिवैयर्थ्यान्नाभोगः स्वकृतस्य हि नित्यत्वादतनुत्वाच्च निष्फलत्वादहेतुतः । जगत्स्थितेरवस्थानान्नेशो विश्वकृदस्ति व: सत्त्वमर्थक्रिया नाशेऽनपेक्षा चिदगोचरा । परलोको विना जीवं सर्वज्ञो न वचः प्रमा इत्थमावेदयन् बुद्धो युक्तिबाधितमञ्जसा । न सर्वज्ञो न चान्येपि परिष्टा जिनोस्तु सः आश्रयासिद्धतादेर्वा प्रत्यक्षादेरसाधनात् । नास्ति सर्वविदित्युक्तं परतन्त्रानवबोधनात् ग्राहिका शक्तिराकारो नानुमाता ततो जिनः । अतीतानागतावस्था नासत्योऽविषयः कथम् चित्रास्तरणरूपादौ क्रमेण न च भासनम् । विरुद्धधर्मसङ्गेपि भवतामिव न क्षतिः सातत्येनोपयोगेऽस्य न विकल्पस्य सम्भवः । छाद्यस्थिकाणां धर्माणां न चात्रायोजनं मतम् विकल्पोप्यर्थसम्भूतेन भ्रान्तोऽकल्पज्ञानवत् । तस्यापि भ्रान्ततायोगे न प्रमाणव्यवस्थितिः
।। १४ ।।
॥ १५ ॥
!॥ १६ ॥
।। १७ ॥
॥ १८ ॥
।॥ १९ ॥
३४१
For Private And Personal Use Only