________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
किञ्च तान्येव नामानि विद्धि योगीन्द्रवल्लभम् । यानि लोकोत्तरं सत्त्वं, ख्यापयन्ति प्रमाणतः संज्ञा रजस्तमः सत्त्वाभासोत्था अतिकोटयः । अनन्ते भववासेऽस्मिन् मादृशामपि जज्ञिरे अपि नाम सहस्रेण मूढो हृष्टः स्वदैवते । बदरेणापि हि भवेत्, शृगालस्य महो महान् सिद्धानन्तगुणत्वेना - ऽनन्तनाम्नो जिनेशितुः । निर्गुणत्वादनाम्नो वा, नामसंख्यां करोतु क: ? रजस्तमोबहिः सत्त्वाऽतीतस्य परमेष्ठिनः । प्रभावेण तमः पङ्के, विश्वमेतन्न मज्जति मन्येऽत्र लोकनाथेन, लोकाग्रं गच्छतार्हता । मुक्तं पापाज्जगत्त्रातुं, पुण्य ( ण्यं) वल्लभमप्यहो ! पापं नष्टं भवारण्ये, समितिप्रयतात् प्रभोः । तद्ध्वंसाय ततः पुण्यं सर्वं सैन्यमिवान्वगात् पुण्यपापविनिर्मुक्त:, तेनासौ भगवान् जिनः । लोकाग्रं सौधमारूढो, रमते मुक्तिकान्तया जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च इति ध्यानरसावेशात्, तन्मयीभावमीयुषः । परत्रेह च निर्विघ्नं वृणुते सकलाः श्रियः
अष्टमः प्रकाशः ।
अर्हतामपि मान्यानां, परिक्षीणाष्टकर्मणाम् । सन्तः पञ्चदशभिदां, सिद्धानां न स्मरन्ति के ?
૨૯૪
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
11 82 11
॥ १ ॥