SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||४|| ॥ ७॥ सीमन्धराद्या अर्हन्तो, विहरन्तोऽथ शाश्वताः । चन्द्राननवारिषेण-वर्द्धमानर्षभाश्च ते ।।३॥ संख्यातास्ते वर्तमानाः, अनन्तारतीतभाविनः । सर्वेष्वपि विदेहेषु, भरतैरावतेषु च ते केवलज्ञानविकाशभासुराः, निराकृताष्टादशदोषविप्लवाः । असंख्यवास्तोष्पतिवन्दितांहूयः, सत्प्रातिहार्यातिशयैःसमाश्रिताः ॥५॥ जगत्रयीबोधिदपञ्चसंयुत-त्रिंशद्गुणालङ्कृतदेशनागिरः । अनुत्तरस्वर्गिगणैः सदा स्मृताः, अनन्यदेयाक्षरमार्गदायिनः ॥ ६ ॥ दुरितं दूरतो याति, साधिाधिः प्रणश्यति । दारिद्रयमुद्रा विद्राति, सम्यग्दृष्टे जिनेश्वरे निन्द्येन मांसखण्डेन, किं तया जिह्वया नृणाम् । माहात्म्यं या जिनेन्द्राणां, न स्तवीति क्षणे क्षणे ॥८॥ अर्हच्चरित्रमाधुर्य-सुधास्वादाऽनभिज्ञयोः । कर्णयोश्छिद्रयोर्वाऽपि, स्वल्पमप्यस्ति नान्तरम् ॥९॥ सर्वातिशयसम्पन्नां, ये जिनार्यों न पश्यतः । न ते विलोचने किन्तु, वदनालयजालके ॥ १० ॥ अनार्येऽपि वसन् देशे, श्रीमानाऽऽर्द्रकुमारकः । अर्हतः प्रतिमां दृष्ट्वा, जज्ञे संसारपारगः जिनबिम्बेक्षणात् ज्ञात-तत्त्वः शय्यम्भवद्विजः । निषेव्य सुगुरोः पादान्, उत्तमार्थमसाधयत् ।॥१२॥ अहो ! सात्त्विकमूर्धन्यो, वज्रको गहीपतिः । सर्वनाशेऽपि योऽन्यस्मै, न ननाम जिनं विना देवतत्त्वे गुरुतत्त्वे, धर्मतत्त्वे स्थिरात्मनः । वालिनो वानरेन्द्रस्य, महनीयमहो महः ॥ १४ ॥ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy