________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
एक: सैन्यतुरङ्गनिष्ठुरखुरक्षुण्णां चकार क्षमामन्यस्तां हृदये दधार तदपि प्रीतिर्द्वयोः शाश्वती स श्रीमत्तपगच्छभूषणमभूद्भूपालभालस्थलव्यावल्गन्मणिकान्तिकुङ्कुमपयः प्रक्षालिताध्रिद्वयः ।षट्खण्डक्षितिमण्डलप्रसृमराखण्डप्रचण्डोल्लसत् पाण्डित्यध्वनदेकडिण्डिमभरः श्रीहोरसूरीश्वरः स्वैरं स्वेहितसाधनी: प्रसृमरे स्वीयप्रतापानले वाग्मन्त्रोपहता विपक्षयशसामाधाय लाजाहुतीः । यो दुर्वादिकुवासनोपजनितं कष्टं निनाय क्षयं, स श्रीमान् विजयादिसेनसुगुरुस्तत्पट्टरत्नं बभौ धारावाह इवोत्रमय्य नितमा यो दक्षिणस्यामपि, स्वैरं दिक्षु ववर्ष हर्षजननीविद्वत्पदाख्या अपः । तत्पट्टत्रिदशाद्रितुङ्गशिखरे शोभा समग्रां दधत्, स श्रीमान् विजयादिदेवसुगुरुः प्रद्योतते साम्प्रतम् यद्गाम्भीर्यविनिर्जितो जलधिरप्युल्लोलकल्लोलभृत् राज्ञेसर्वमिदं निवेदयति किं व्याकीर्णलम्बालकः । तत्पट्टोदयपर्वतेऽभ्युदयिन: पुष्णाति पूष्णस्तूलां, स श्रीमान् विजयादिसिंहसुगुरु: सौभाग्यभाग्यैकभूः गच्छे स्वच्छतरे तेषां परिपाट्योपतस्थुषाम् । कवीनामनुभावेन नवीनां कृतीमादधे सहस्रैर्मघवा हरश्च दशभिः श्रोत्रैविधिश्चाष्टभिर्येषां कीर्तिकथा सुधाधिकरसां पातुं प्रवृत्तां समम् । ते श्रीवाचकपुङ्गवास्त्रिजगतीविख्यातधामाश्रयाः, कल्याणाद्विजयाह्वयाः कविकुलालङ्कारतां भेजिरे
॥ ८
॥
॥ ९
॥
॥ १० ॥
For Private And Personal Use Only