________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राचीनाः प्राप्तचीना अपि कपिकुलवद्दाक्षिणात्याः क्षणात्या क्षोणी: क्षोणीमहेन्द्रा विजहति हतिभिर्जर्जरा गूर्जराश्च । अन्ये मन्ये नमन्ये चलचलनिलया किं च सर्वेप्यगर्वा यस्मिन्नालंमासाहिक्षितिभृति विहितप्रस्थितौ दिग्जयार्थम् ॥ १०४ ।। श्रीमालोरुकुले किलातिविमले जातो यदीयोभवन्मन्त्रीसोनगिरान्वयः श्रीतदयः श्रीझञ्झणो नाम सः । अद्बस्तैः शिशिरादिकैरिव लसत्सत्यक्षयं राजितो वंशो यस्य विभाव्यते स्म भुवने षड्भिस्तनूजन्मभिः ॥ १०५ ।। प्राक्पुण्यकार्मणवशीकृतसिन्धुजेषु तेषु श्रीतेषु समतामपि धीरधीषु । सर्वज्ञसंज्ञमहसः स पुनः प्रसादा च्छीबाहड: समभवद्बहुनागरीयान्
॥ १०६॥ श्रीसङ्घप्रभुतामितस्य विमलाप्राचीनपुण्याचलश्रेणीसत्परिम एक उदितो यस्यात्मजो मण्डनः । यः सारस्वतकाव्यमण्डनकविर्दारिद्र्यभूभुत्पविविज्ञानां च यथा रविविजयते तीव्रप्रतापैर्भुवि ।। १०७ ।। श्रीसर्वज्ञपदाम्बुजालिशिरसा धर्मैकधामोरसा विद्वन्मण्डनपण्डितेन कविना कान्तेन तेनामुना । श्रीमन्मण्डनसंज्ञकेन कविना शृङ्गारभङ्गया सत श्लोकीश्लोक्यतमा समा विरचिता पीयूषपाथोधिना ॥१०८॥
૨૨૦
For Private And Personal Use Only