________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रातस्त्यशान्तसमये कः कालः को व्ययागमो देशः । कोऽहं का मम शक्तिः को वैरी सम्पदनुबन्धः
Acharya Shri Kailassagarsuri Gyanmandir
को देवः कस्याहं किं कुलमसुखं सुखं ममास्ति कुतः । प्रत्याहते परैः किमु सद्यः प्रत्युत्तरं दातुम् इति चिन्तयति मुहुर्मुहुरहर्मुखे किं दिनस्य मम कृत्यम् । के सुहृदो गुरुरपि कः सदसत्कृत्यं किमिह बन्धुः स्थितिरिह सातत्यवती यदन्तिकं गम्यते प्रयोजनतः । तस्य स्थैर्यादिगुणव्यसनानि च चिन्तयेन्मतिमान् खिन्नैरपि मोक्तव्यं न कालकृत्यं कदाचिदपि सुहृदा । क्लेशजितः पुरुषोऽपि हि पुरुषार्थफलं न चाप्नोति उन्नतमनोरथानां मनस्विना माननीयमपि करणम् । तद्विधिरनुमानवशाद् यतते सम्पत्सु सोद्योगः परुषं कर्म न कुर्यात् क्षमावते सज्जनाय जातु च न मथितादपि चन्दनतः प्रायः प्रादुर्भवत्यग्निः सत्सङ्गतिर्विधेया शुभोपदेशप्रदा वयोवृद्धाः । बहुशास्त्र श्रुतकुशला निरन्तरं सेवनीयास्ते इह - परलोकविरुद्धं कुर्वाणं नरमभित्यजेद् विबुधः । यो हन्ति निजं स कथं परमवति गरिष्ठमन्दमतिः विद्यातपः प्रयासै: शौर्येण धनेन धर्मसदृशैश्च । अकुलीनोऽपि कुलीनो भवति नरस्तत्क्षणादेव नात्मानमतीवोच्चै:प्रयासतः खलु गरीयसः कुर्यात् । यदि तस्मादवपातो महते दुःखाय तद् भवति गतवस्तुनो न शोकः कार्यः प्रतिपन्नकार्यपरिहारः । निश्चिन्तस्वापकृतो निद्राभङ्गो न कर्तव्यः
૧૯૨
For Private And Personal Use Only
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
11 20 11
॥ २१ ॥
॥ २२ ॥