________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रशान्तहृदयं धर्मध्यानचित्तं दृढव्रतम् । पापोऽपि बोधवान् दृष्ट्वा पुष्पाजीव इवार्जुनः वयसा लघुरप्यत्र जिनाऽऽज्ञायां रुचि दधत् । अतिमुक्तर्षिवत् प्राज्ञो वृणुते केवलश्रियम् प्रभुत्वमदमत्तः सन् कर्णनक्रवधादिकम् । कुर्वन्निन्द्रियवैकल्य-दुःखं लोष्टवदाप्नुयात्
यी नरकगामी स्यात् स्तेयं हेयं मनीषिणा । चौर्याद् येन निगृह्येत नृपैर्मण्डितचोरवत् स्तेयं कुलक्रमाऽऽयातमपि यस्तु परित्यजेद् । स्वर्भोगभङ्गी - सुभगः स भवेद् रौहिणेयवत् बहुभिः प्रार्थ्यमानोऽपि प्राणी चरमविग्रहः । नभोगसम्मुखीनः स्याद् गजादिसुकुमालवत् धर्माद् विरक्तहृदयोऽपि नरः सुवेषलज्जां वहन्न हि जहाति चरित्रधर्मम् । मन्त्रीश्वरोदयनबोधकृते मुनित्वमारोपितोऽपरनृपैरिव पीठमर्दः कुशाग्रीयमतिर्धर्मं परीक्ष्यैव समाचरेत् । वृषवाहिवणिग्वन्न लोकोक्तौ प्रत्ययी भवेत्
आच्छादयन् व्यक्तदोषानपि च ख्यापयन् गुणान् । स प्रशस्यः सुरेन्द्राणामपि स्याद् वासुदेववत् द्विविधस्यापि धर्मस्य साधुश्रद्धालुभेदतः । द्वारभूतेऽथ सम्यक्त्वे यततां धनपालवत् न चलेन्मेरुचूलेव त्रिदशैश्चालितोऽपि सन् । स्थिरबुद्धिः शुद्धधर्माच्छ्रेणिकक्षितिपालवत्
१८०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ११६ ॥
॥ ११७ ॥
।। ११८ ।।
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२॥
॥ १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
॥ १२६ ॥