________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३॥
11 ३४ ।।
॥ ३५ ॥
॥३६॥
॥ ३७॥
॥ ३८ ।।
निर्मितः फलदोऽल्पोऽपि नियमः स्थिरचेतसाम् । ग्रन्थिमात्रकृतप्रत्याख्याने यक्षकपर्दिवत् इहापि फलदायी स्यान्नियमो वङ्कचूलवत् । निजसामर्थ्यतस्तस्माद् गृह्णीयात्तं महामतिः यः कश्चिदपि कर्तव्यो नियमो धर्ममिच्छना । यदिहापि फलप्राप्त्यै कमलश्रेष्ठिवद् भवेत् असह्यान्यपि कष्टानि शरीरी क्षमतेतराम् । क्षमाकवचसंनद्धः सुकोशलमुनिर्यथा कोपं न कुर्यान्निर्वाण-मार्गलुण्टाकपोषकम् । कुणालानगरीकायोत्सर्गिक्षपकयोर्यतः क्रोधोद्धता मत्सरिणो मत्स्या इव परस्परम् । नरकं यान्ति निघ्नन्तः सत्त्वान् रामसुभूमवत् कोपोऽग्निरिव सद्वस्तु पित्राद्यपि प्रतापयेत् । यथा कूणिनृपेणात्र हतः श्रेणिकभूपतिः पुराकृतानां पुण्यानां प्रभावादापदाऽप्यहो । पराभवति नो जन्तूञ्छिशुत्वे कृष्णविष्णुवत् जन्तूद्धरणबुद्धींश्च श्रमणांश्च महात्मनः । दुष्टात्मा पीडयन् पीडां लभते नमुचिर्यथा धर्मोपदेशो दातव्य: सुधिया बोधहेतवे। जितशत्रुक्षितिपतिर्यथाऽमात्यसुबुद्धिना वदेत् सदुपदेशं तु चण्डस्यापि महामतिः । कदाचिदपि शान्त्यै स्याद् हरिभद्रगणीन्द्रवत् उपस्थितोऽपि प्रत्यूहो जन्तूनां निष्फलो भवेत् । धर्मकर्मप्रभावेण ज्ञानगर्भप्रधानवत्
॥ ३९ ॥
1॥ ४० ॥
॥४१ ॥
॥४२॥
॥४३॥
॥४४॥
१८३
For Private And Personal Use Only