________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोभेन स्वजनत्यागी, वाचा मित्रविरागकृत् । लाभकाले कृतालस्यो, महर्द्धिः कलहप्रियः राज्यार्थी गणकस्योक्त्या, मूर्खमन्त्रे कृतादरः । शू दुर्बलबाधायां दृष्टदोषाङ्गनारतिः क्षणरागी गुणाभ्यासे, सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन, जने राजादिनिन्दकः दुःखे दर्शितदैन्यातिः, सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै, परीक्षायै विषाशनः दग्धार्थो धातुवादेन, रसायनरसः क्षयी | आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः नित्यं निष्फलसञ्चारी, युद्धप्रेक्षी शराहतः । क्षयी शक्तविरोधेन, स्वल्पार्थः स्फीतडम्बरः पण्डितोऽस्मीति वाचाल, सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः दरिद्रहस्तन्यस्तार्थः, सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये लेख्यकोद्वेगी, देवाशात्यक्तपौरुषः गोष्ठीरतिर्दरिद्रश्च दैन्ये विस्मृतभोजनः । गुणहीन: कुलश्लाघी, गीतगायी खरस्वरः भार्याभयान्निषिद्धार्थी, कार्पण्येनाप्तदुर्दशः । व्यक्तदोषजनश्लाघी, सभामध्यार्द्धनिर्गतः दूतो विस्मृतसन्देशः, कासवांश्चौरिकारतः । भूरिभोज्यव्ययः कीर्त्यैः, श्लाघायै स्वल्पभोजन: स्वल्पभोज्येऽतिरसिको, विक्षिप्तश्छद्मचाटुभि: । वेश्यासपत्नकलही, द्वयोर्मन्त्रे तृतीयकः
૧૨૮
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
1124 11
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥ *