________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥ २॥
॥३॥
॥
४
॥
॥सूक्तमाला ॥ (अपरनाम)
॥ दृष्टान्तशतकम् ॥ प्रणिपत्य परं ज्योति- नाभणितिभङ्गिभिः । श्लोकैरेव यथाशक्ति सूक्तमालां वितन्महे कलाकलापसम्पन्ना जल्पन्ति समये परम् । घनागमविपर्यासे केकायन्ते न केकिनः उपकर्ता स्वतः कश्चिदपकर्ता च कश्चन । चैत्रस्तरुषु पत्राणां कर्ता हर्ता च फाल्गुनः कल्याणमूर्तेस्तेजांसि सम्पद्यन्ते विपद्यपि । किं वर्णिका सुवर्णस्य नारोहति हुताशने दधत्यार्तं सुखाकर्तुं सन्तः सन्तापमात्मना। सुदुःसहं सहन्ते हि तरवस्तपनाऽऽतपम् गुणिनः स्वगुणैरेव सेवनीयाः किमु श्रिया ? । कथं फलधिवन्ध्योऽपि नाऽनन्दयति चन्दनः नहोके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि घनसारो न सौरभम् विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि-महारिष्ट्यय जायते निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति । राहुराहूयते केन विधोर्वेधुर्यहेतवे निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्रोहप्ररोहाय यतो जागत्ति दुर्जनः दुर्जनः कालकूटच ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः
॥६॥
॥ ७॥
॥ ८॥
॥ ९
॥
॥१०॥
॥ ११ ॥
१०८
For Private And Personal Use Only