________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मामप्युत्कयसि प्रियत्वमथवा किं पाटलासङ्गमात्, सौगन्ध्यं पयसः कपालशकलं नाधातुमस्मिन्नलम् गुरु: स्तम्भारम्भः कुचमुकुलयोराऽऽ हितसखी, मनः कम्पः कम्पः श्वसितमधिकं चक्षुरभसम् । अविच्छेदः स्वेदः पृथुदवथु शून्यं च हृदहो !, न जानीमः तस्यां क इव हि चिकारव्यतिकरः कान्तं मानसमक्षिपुष्करवरं शोणोऽधरः कुन्तलाः, कालिन्दीरुचिराः कपोलफलक श्रीश्चन्द्रभागाऽधिका । सूते शर्म सरस्वती मुखनदी नाभिः क्रिया नर्मदा, तापक्लान्तिनुदे मुदे च सुतनु ! त्वं पुण्यतीर्थाश्रिता इन्दोर्नाम मुधा सुधाकर इति व्यक्तं यदेकं प्रियं, कामं नाम हरक्षिवह्निकणिकोत्तापान्न पातुं क्षमः । यत्सत्यं तु सुधामयीह तरुणि त्वं यादृशाऽपि क्षणं, पश्यन्ती विरहाग्निदग्धवपुषां पुष्णासि कामान् बहून् साकं बाष्पकणाः पतन्ति वलयैः सार्द्ध शुचा वर्द्धते, सन्तापः सह निद्रया तनुलताऽत्यर्थंगता तानवम् । तस्यास्त्वद्विरहादहानि दधति श्वासैः समं दीर्घतां, सत्रा निस्त्रप सम्मदेन गलिता लीलाविलासोदयाः परिहर गृहमेतत् मुञ्च वा गोचरं मे, त्यज नगरमिदं वा गच्छ देशान्तरं वा ।
अयि ! दयित विजाने कौशलं ते यदीतः, पदमपि चलसि त्वं हृत्कुटीकोटरान् मे
Acharya Shri Kailassagarsuri Gyanmandir
मुञ्चत्युच्चकुचप्रकम्पविधुराऽऽहारं च हारं च सा, धत्ते कण्ठगतानसुंस्त्वदभिधामन्त्रं च बाष्पाकुला ।
८
For Private And Personal Use Only
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥