________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीविविधपयन्नावचूरिटीका प्रारभ्यते ॥ उपावी प्रसिह करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) नमः श्रीसर्वज्ञाय, चतुःशरणविषमपदविवरण-सावऊ. सह अवद्येन पापेन वर्तते इति सावद्याः, युज्यंते इति योगा मनोवाकायव्यापाराः, सावद्याश्च ते योगाश्च सावद्ययोगाः, विरमणं विरतिस्तेषां विरतिस्तविरतिः, सामायिकेन क्रियते श्यध्याहार्य, उकीर्तनमुत्कीर्तना सा चतुर्विंशतिस्तवेन क्रियते, गुणा शानदर्शनचारित्राद्यास्ते विद्यते येषां ते गुणवंतस्तेषां प्रतिपत्तिक्तिर्गुणवत्प्रतिपत्तिः, सा वंदनकेन क्रियते, स्खलनं स्खलितमात्मनः सातिचारकरणं तस्य निंदनं निंदना न पुनः करिष्यामीत्यज्युपगमनं तत्प्रतिक्रमणेन क्रियते, चिकित्सनं चिकित्सा व्रणस्यातीचाररूपन्नावव्रणस्य चिकित्सा व्रणचिकित्सा, सा कायोत्सर्गेण क्रियते, गुणा विरत्यादयो, धरणं धारणा तेषां धारणा, सा प्रत्याख्यानेन क्रियते, चेति समुच्चये, उक्तः सामायिकाद्यर्थः, एतेषां षामां अर्थ च |
For Private and Personal Use Only