________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाप्रभावं अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्त्रशुश्रूषितं भवान्तरकृतासंख्यपुण्यप्राप्यं सम्यग् जपतां पठतां गुणयतां शृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां ऐहिक्यः सर्वा अपि शुद्धगोत्रकलत्र-पुत्र-मित्र-धनधान्य-जीवित-यौवन-रूपाऽऽरोग्ययशःपुरस्सराः सर्वजनानां सम्पदः परभागजीवितशालिन्यः सदुदर्काः सुसंमुखी भवन्ति । किं बहुना ?
११. इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं अष्टमहासिद्धिप्रदं सर्वपापनिवारणं सर्वपुण्यकारणं सर्वदोषहरं सर्वगुणाकरं महाप्रभावं अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्त्रशुश्रूषितं भवान्तरकृतासंख्यपुण्यप्राप्यं सम्यग् जपतां पठतां गुणयतां शृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां आमुष्मिक्यः सर्वमहिमास्वर्गापवर्गश्रियोऽपि
For Private and Personal Use Only