SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [114 : १०.८ 114) फलसंपत्तीइ समोणयाइ तुंगाइ फलविपत्तीए। हिययाइ सुपुरिसाणं महातरूणं व सिहरा ॥८॥ 115) हियए जाओ तत्थेव वढिओ नेय पयडिओ लोए। ववसायपायवो सुपुरिसाण लक्खिज्जइ फलेहि'॥९॥ ..] 16) ववसायफल विवो विहवस्स य विहलजणसमुद्धरणं । विहलुद्धरणेण जसो जसेण भण किं न पज्जत्तं ॥ १० ॥ 117) आढत्ता सप्पुरिसेहि तुंगववसायदिन्नहियएहिं । कज्जारंभा होहिंति निष्फला कह चिरं कालं ॥११॥ वशेन विघटमानः कार्यपरिणामो न समाप्यते, न पूर्णो भवति, तथा तथा धीराणां मनसि द्विगुणः समुत्साहो वर्धते ।। ११३ ॥ 114) [ फलसंपत्त्या समवनतानि तुङ्गानि फल विपत्त्या। हृदयानि सुपुरुषाणां महातरूणामिव शिखराणि ।। ] फलसंपत्त्या समवनतानि तुङ्गानि फलविपत्त्या, सत्पुरुषाणां हृदयानि महातरूणामाम्रादीनां शिखराणीव भवन्तीत्यध्याहर्तव्यम् ।। ११४ ।। ____115) [हृदये जातस्तत्रैव वर्धितो नैव प्रकटितो लोके । व्यवसायपादपः सुपुरुषाणां लक्ष्यते फलैः ।। ] व्यवसायपादपः सुपुरुषाणां फलैः लक्ष्यते । अत्र फलं कार्यनिष्पत्तिः । किंविशिष्टो व्यवसायपादपः । हृदये जात उत्पनस्तत्रैव वर्धितो नैव प्रकटितो लोके । अन्यो यः पादपो भवति स जातमात्रो दृश्यते वर्धमानश्च । अयं तु व्यवसायवृक्षः फलैरेव ज्ञायते । अयं भावः। सत्पुरुषाणां व्यवसायः फलित एव ज्ञायते, न पूर्वमिति ।। ११५ ।। 116) [ व्यवसायफलं विभवो विभवस्य च विह्वलजनसमुद्धरणम् । विह्वलोद्धरणेन यशो यशसा भण किं न पर्याप्तम् ।। ] व्यवसायफलं विभवः । विभवफलं विह्वलजनसमुद्धरणम् । विह्वलोद्धरणेन यशो, यशसा भण किं न पर्याप्तम् अपि तु सर्वमपि संपूर्णम् ।। ११६ ।।। ___117) [ आरब्धाः सत्पुरुषैस्तुङ्गव्यवसायदत्तहृदयैः । कार्यारम्भा भविष्यन्ति निष्फलाः कथं चिरं कालम् ।। ] सत्पुरुषैस्तुङ्गव्यवसायदत्त 1] फलेण For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy