________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वज्जालग्गं
18) छंद अयाणमाणेहि जा किया सा न होइ रमणिजा । किं गाहा अह सेवा अहवा गाह्रा वि सेवा वि ॥ १० ॥
[18: २.१०
३. कव्ववज्जा [ काव्यपद्धतिः ]
19) चिंतामंदरमथाणमंथिए वित्थरम्मि अत्थाहे । उप्पजंति कई हिययसायरे कव्वरयणाई ॥ १ ॥ 20) रयणुजलपयसोहं तं कव्वं जं तवेइ पडिवक्खं । पुरिसायं तविलासिणिरसणादामं मिव रसंतं ॥ २ ॥
18) [ छन्दो (छन्दम्) अजानद्भिर्या कृता सा न भवति रमया । किं गाथाथ सेवा, अथवा गाथापि सेवापि ॥ ] छन्दः छन्द:शास्त्रम् । पक्षे छन्दानुवर्तनम् | अजानानैः पुंभिर्या कृता सा न भवति रमणीया । किं गाथा अथवा सेवा । अथवा गाथापि सेवापि ।। १८ ।।
19) [ चिन्तामन्दरमन्थानमथिते विस्तृतेऽस्ताघे । उत्पद्यन्ते कविहृदयसागरे काव्यरत्नानि ॥ ] उत्पद्यन्ते कविहृदयसागरे काव्यरत्नानि । सागरधर्ममाह । किंविशिष्टे हृदयसागरे । चिन्तामन्दरमन्थानमथिते । विस्तारे | अस्ताघे । अनलस्पर्शे अनाकलनीये च ॥ १९ ॥
20 ) [ रचनोज्ज्वल ( रत्नोज्ज्वल) पदशोभं तत् काव्यं यत् तापयति प्रतिवक्षः ( प्रतिपक्षम् ) । पुरुषायमाणविलासिनीरशनादामेव रसान्तम् ( रसत् ) ।। ] तत्काव्यं यत् तापयति प्रतिपक्षं दुर्जनम् । किं विशिष्टं काव्यम् । रचनोज्ज्चलपदशोभम् । रचनयोज्ज्वला पदशोभा यत्र तत्' । किमिव । पुरुषायमाणविलासिनीरसनादामेव । पुरुषायमाणा विपरीतरतं कुर्वाणा या विलासिनी, तस्या यद् रसनादाम मेखलाकलाप:, तदिव । यथा तत् प्रतिपक्षं सपत्नीलोकं तापयति । तच्चापि किंविशिष्टम् । रत्नोज्लपदशोभम् ॥ २० ॥
For Private And Personal Use Only
1 J adds the following words : किंलक्षणं तत् । रसंतं रसमध्यम् । 2 J adds : पुनः किंभूतम् । र संतं जल्पत् ।