________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वज्जालग्गं
[722 : ८३.१
८३. चक्कवायवज्जा (चक्रवाकपद्धतिः ) 722) अद्धत्थमिए सूरे जं दुक्खं होइ चक्कवायस्स।
तं होउ तुह रिऊण अहवा ताणं पि मा होउ ॥१॥ 723) भूमीगयं न चत्ता सूरं दळूण चक्कवारण ।
जीयग्गल ब्व दिन्ना मुणालिया विरहभीरण ॥२॥ 724) अग्गि व्व पउमसंड चिय बनलिणी मडो व्व अप्पा णं।
चक्केण पियाविरहे मसाणसरिसं सरं दिई ॥ ३ ॥ 725) आसासिज्जइ चक्को जलगयपडिबिंबदसणासाए ।
तं पि हरंति तरंगा पेच्छह निउणत्तणं विहिणो ॥४॥
722) [ अर्धास्तमिते सूर्ये यद् दुःखं भवति चक्रवाकस्य । तद्भवतु तव रिपूणामथवा तेषामपि मा भवतु ।। ] अर्धास्तमिते सूर्ये यद् दुःखं भवति चक्रवाकस्य, तद्भवतु तव रिपूणाम् अथवा तेषामपि मा भवतु । सूर्यास्तमने किल चक्रवाक्या सह वियोगप्रारम्भः । इतः परं सकलामपि रात्रिं जीवितेश्वर्या सह वियोगदुःखमनुभविष्यामीति चिन्तागृहीतस्यः चक्रवाकस्य दुःखमिति ।। ७२२ ॥
723) [ भूमिगतं न त्यक्ता सूर्य दृष्ट्वा चक्रवाकेण । जीवार्गलेव दत्ता मृणालिका विरहभीतेन ।। ] भूमिगतं सूर्यं दृष्ट्वा विरहभीतेन चक्रवाकेण मृणालिका न त्यक्ता । तर्हि किं कृता इत्याह । जीवार्गला दत्तेव । अयमर्थः । मृणालिकां भक्षयश्चक्रवाकः सूर्यास्तमनमालोक्य कथं प्रियाविरहवेदनाव्यतिकरं सोढास्मीति चञ्चूस्थितामपि मृणालिकामर्गलापायां जीवगमनभयादिव न मुमोचेति ।। ७२३ ॥
724)[ अग्निरिव पद्मषण्डं चितेव नलिनी मृतक इवात्मा खलु । चक्रेण प्रियाविरहे श्मशानसदृशं सरो दृष्टम् ।। ] चक्रेण चक्रवाकेण सरः श्मशानसदृशं दृष्टम् । श्मशानसादृश्यमाह । श्मशाने किल अन्यादयो भवन्ति । अग्निरिव पाषण्डं, चितेव नलिनी, मृतकमिव आत्मानं (? मृतक इव आत्मा) । दृष्टमिति सर्वत्र संबध्यते ।। ७२४ ।।
725) [ आश्वास्यते चक्रो जलगतप्रतिबिम्वदर्शनाशया। तामपि हरन्ति तरङ्गाः प्रेक्षवं निपुणत्वं विधेः ।। ] आश्वास्यते चक्रो जलगत
For Private And Personal Use Only