________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
वजालग्गं
[ 499:५१.३- .
499) अस्थि घर च्चिय गणओ विचित्तकरणेहि निठुरं गणइ । न हु जाणइ सुक्कगई तेणाहं तुह घरे पत्ता ॥ ३ ॥ 500 ) जोइसिय कीस चुक्कसि विचित्तकरणाइ जाणमाणो वि । तह कह वि कुणसु सिग्धं जह सुकं निश्चलं होइ ॥ ४ ॥ 501) विवरीय रविंबे नक्खत्ताणं च ठाणगहियाणं ।
न पडइ जलस्स बिंदू सुंदरि चित्तट्ठिए सुके ॥ ५ ॥
499) [ अस्ति गृह एव गणको विचित्रकरणैर्निष्ठुरं गणयति । न खलु जानाति शुक्रगति तेनाहं तव गृहे प्राप्ता ।। ] अस्ति गृह एव गणकः । विचित्रकरणैः, विचित्राणि यानि करणानि बवबालवादीनि सप्त, तैर्निष्ठुरं गणयति । परं न खलु जानाति शुक्रस्य गतिं शुक्रातिचारं, तेनाहं तत्र गृहे प्राप्तास्मीति । भावार्थस्वयम् । अस्ति गृहे एव गणको विचित्रकरणैर्नाना बन्वैर्निष्ठुरं गणयति । परं न खलु जानाति शुक्रस्तम्भनं, तेनाहं तव गहे प्राप्तास्मीति । त्वं तथा कुर्वीथा यथा शुक्रो निश्चलः (शुक्रं निश्चलं ) स्यादिति ॥ ४९९॥
1
500) [ ज्यौतिषिक किं प्रमाद्यति विचित्रकरणानि जानानोऽपि । तथा कुरु कथमपि शीघ्रं यथा शुक्रो ( शुक्रं ) निश्चलो (निश्चलं) भवति || ] ज्योतिषिक किमिति भ्रमसि विचित्रकरणानि जानानोऽपि । तथा कथमपि कुरु शीघ्रं यथा शुको निश्चलो भवति । पक्षे शुक्रं सप्तमो धातुर्वीर्यमिति ।। ५०० ॥
501 ) [ विपरीते र विबिम्बे (रतिबिम्बे ) नक्षत्राणां (नखक्षतानां ) च स्यानगृहीतानाम् । न पतति जलस्य ( बीजस्य ) बिन्दुः सुन्दरि चित्रास्थे (चित्तस्थे ) शुक्रे ॥ ] विपरीते रविबिम्बे पक्षे रतिबिम्बे | नक्षत्राणां नखक्षतानां च । न पतति जलस्य बिन्दु:, हे सुन्दरि, चित्रास्थे शुक्रे भार्गवे । पक्षे जलस्य बीजस्य, चित्तस्थे शुक्रे वीर्ये ॥ ५०१ ॥
For Private And Personal Use Only