________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૨
वजालग्गं
[+14:४३.
414) कित्तियमेत्तं एयं एसावत्था उ सहि सरीरस्स।
महिला महिलाण गई जं जाणसि तं कुणिज्जासु ॥ २॥ 415) जं तुह कज्ज भण तं मह त्ति जं जाणिउं भणेज्जालु ।
ओ दुइ सञ्चवयणेण तं सि पारं गया अज्ज ॥३॥ 416) तिलयं विलयं विवरीय कंचुयं सेयभिन्न सव्वंगं ।
पडिवयणं अलहंती दुई कलिऊण सा हसिया ॥४॥ 417) जइ सो न एइ गेहं ता दूइ अहोमुही तुमं कीस ।
सो होही मज्झ पिओ जो तुज्झ न खंडए वयणं ॥५॥
414) [ कियन्मात्रमेतदेषावस्था तु सखि शरीरस्य । महिला महिलानां गतिर्यज्जानासि तत्र्याः ॥ ] हे सखि कियन्मात्रमेतत्, एषावस्था तु शरीरस्य । महिला महिलानां गतिर्यज्जानासि तत्कुर्याः । मम भर्तुः परःसहस्रा अपराधाः । तेषु सत्सु यदि मानमवलम्बेय तर्हि शरीरस्येयमवस्था । अतः कारणादेवंविधे व्यतिकरे त्वमेव मम शरणम् । येन केन प्रकारेण स आगच्छति तद् विदधीथा इति भावः ।। ४१४ ॥
____415) [ यत्तव कार्य भण तन्ममेति यज्ज्ञातुं भणेः। हे दूति सत्यवचनेन त्वमसि पारं गताद्य ।। ] यत्तव कार्य तन्मा भण। यज्ज्ञातुं तद्भणेः । ओ दूइ हे दूति, सत्यवचनेन त्वं पारं गतासि अद्य ॥४१५॥
416 ) [ तिलकं विलयं विपरीतं कञ्चुकं स्वेद भिन्नं सर्वाङ्गम् । प्रतिवचनमलभमाना दूती कल यित्वा सा हसिता || ] तिलकं विलयं, विपरीतं कञ्चुकं, स्वेद भिन्नसर्वाङ्गम् । प्रतिवचनमलभमाना कोपेन. 'एवमकाहं दूति' इति कल यित्वा वा हसिता ।। ४१६ ॥
___417 ) [ यदि स नैति गेहं तद् दूति अधोमुखी त्वं कस्मात् । स भविष्यति मम प्रियो यस्तव न खण्डयति वचनं ( बदनम् ) ।। ] हे दृति यदि स न गेहमेति, ततस्त्वं किमित्यधोमुखी भवसि । स भविष्यति ममः प्रियो यस्तव वचनं न खण्डयति, तवादेशं करिष्यति । अयं भावः । कयाचिन्नायिकया प्रेषिता दृती प्रियं प्रति, तत्रैव तेन सह सुरतसुखमनुभय खण्डिताधरा, एवंविधं मुखं कथं तस्यै दर्शयामीत्यधोमुखी आगतवती । तां च तथाविधामवलोक्य नायिका प्रकारान्तरेण प्रतिभिनत्ति । हे सखि
For Private And Personal Use Only