________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-265:२९.२]
चंदवजा 262) एकेण य पासपरिदिएण हंसेण होइ जा सोहा।
तं सरवरो न पावइ बहुएहि वि ढिंकसत्थेहिं ॥६॥ 263) माणससररहियाणं जह न सुहं होइ रायहंसाणं ।
तह तस्स वि तेहि विणा तीरुच्छंगा न सोहंति ॥७॥
२९. चंदवजा [चन्द्रपद्धतिः] 264) सव्वायरेण रक्खहतं परिसं जत्थ जयसिरी वसइ।
अत्थमिय चंदबिबे ताराहि न कीरए जोण्हा ॥१॥ 265) जह जह वडेइ ससी तह तह ओ पेच्छ घेप्पइ मपण ।
वयणिज्जवज्जियाओ कस्स वि जइ हुँति रिद्धीओ॥२॥
262) [एकेन च पार्श्वपरिस्थितेन हंसेन भवति या शोभा। तां सरोवरो न प्राप्नोति बहुभिरपि ध्वाक्षसाथैः ॥ ] एकेनैव पार्श्वस्थितेन हंसेन भवति या शोभा, तां सरोवरो बहुभिरपि दिकसाथै प्राप्नोति ॥२६२॥
263) [ मानससरोरहितानां यथा न सुखं भवति राजहंसानाम् । तथा तस्यापि तैर्विना तीरोत्सङ्गा न शोभन्ते ॥ ] यथा मानससरोवररहितानां हंसानां सुखं न भवति, तथा तस्यापि मानसस्य तैर्विना तीरोत्सङ्गा न शोभन्ते ।। २६३ ।।
264) [ सर्वादरेण रक्षत तं पुरुषं यत्र जयश्रीर्वसति । अस्तमिते चन्द्रबिम्बे ताराभिर्न क्रियते ज्योत्स्ना ।। ] सर्वादरेण सर्वप्रयत्नेन तं पुरुषं रक्षत यत्र जयलक्ष्मीर्वसति। अमुमेवार्थमर्थान्तरेण साधयति । अस्तमिते चन्द्रमण्डले ताराभिज्योत्स्ना न क्रियत इति ॥ २६४॥
265) [ यथा यथा वर्धते शशी तथा तथाहो पश्य गृह्यते मृगेण (मदेन ) । वचनीयवर्जिताः कस्यापि यदि भवन्त्यद्धयः ।।] यथा यथा वर्धते शशी। 'ओ' इति अहो । पश्य गृह्यते मृगेण, मदेन च गर्वेण । वचनीयवर्जिताः कस्यचिद् यदि भवन्त्यद्धयः । न तु सर्वेषाम् । यथा यथा पुमान् अर्थेन गुणगणेन परिपूर्णो भवति तथा तथा गर्वायत इति । निर्मदो भाग्यवानेको न तु सवें लक्ष्मीपूरिता इति ।। २६५ ॥
For Private And Personal Use Only