________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 उपमितिभवप्रपञ्चा कथा / नगरे / विमर्शनोक / ननु सिद्धमिदानीमावयोः समौहितं / दृष्टो विषयाभिलाषो मन्त्रौ / निश्चितमस्य रसनाजनकत्वं / अतोऽवगता तस्य सम्बन्धिनी मूलशुद्धिः संपादितं राजशासनं। अतः किमधुनान्यत्र गतेन / स्वस्थानमेवावयोर्गन्त युक्तं / प्रकर्षणोकं / माम मैवं वोचः / यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तद्दर्शनकौतुकं ततो नादर्शितेन तेन गन्तुमर्हति मामः। दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन / निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुदयमात्रमतिक्रान्तं / यतोऽधना शिशिरो वर्तते। तथाहि। पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते मांप्रतं प्रियङ्गुलताः / विकासहामनिर्भरा विराजन्तेऽधुना रोप्रवल्लयः / विदलितमुकुलमञ्जरीकमिदानौं विभाति तिलकवनं / अपि च / शिशिरतषारकणकनिर्दग्धमशेषसरोजमण्डलं सहकिमलयविलाससुभगेन महातरुकाननेन भोः / पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं ननु खलमदृश एष तोषादिव(वि)हमति कुन्दपादपः // नूनमत्र शिशरे विदेशगाः सुन्दरीविरहवेदनातुराः / गौतवातविहताः क्षणे क्षणे जौवितानि रहयन्ति मूढकाः / पश्य माम कृतमुत्तरायणं भास्करेण परिवर्धितं दिनम् / शर्वरी च गमितेषदूनता पूर्वरा त्रिपरिमाणतोऽधुना // बहलागरुधूपवरेऽपि ग्टहे वररलककम्बललियुते / बहुमोहनृणां शिशिरेऽत्र सुखं न हि पौनवपुललनाविरहे / अथापि वर्धितं तेजो महत्त्वं च दिवाकरे / For Private and Personal Use Only