________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रयुञ्जते पुनीके हेतवो ये बहिर्गताः / एनां दरिद्रतां तात तानहं ते निवेदये // जलज्वलनलुण्टाकराजदायादतस्कराः / मद्यद्यूतादिभोगित्ववेश्याव्यमनदुर्नयाः // ये चान्ये कुर्वते केचिद्धनहानिवयस्थिकाम् / अस्यास्ते हेतवः सर्वे वत्म ज्ञेयाः प्रयोजकाः // केवलं तत्त्वतस्तेऽपि मान्तरायं चमूमतम् / पापोदयाख्यं कुर्वन्ति प्रहमस्याः प्रयोजकम् / दुराशापाशसंमूढं धनगन्धविवर्जितम् / वीर्यण कुरुते लोकमेषा तात दरिद्रता || दैन्यं परिभवो मौढ्यं प्रायशो बकपत्यता / हृदयन्यूनता याचा लाभाभावो दुरिच्छता // बुभुक्षारतिसन्तापाः कुटुम्बपरिदेवनम् / अस्या इत्यादयो वत्म भवन्ति परिचारकाः // अस्ति पुण्योदयाख्येन प्रयुक्तः पृथिवीतले / जनाल्हादकरोऽत्यन्तमैश्वर्याख्यो नरोत्तमः // स मौष्टवमहोत्सेकद्ददयोन्नतिगौरवैः / जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः // सुभूरिधनसम्भारपूरितं जनताधिकम् / करोति सुखितं मान्य लोकमुद्दामलीलया // इयं च रेष्टते तात परिवारममेयुषौ / तदुद्दलनचातुर्यमाबिभ्राणा दरिद्रता // For Private and Personal Use Only