________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरमा प्रस्तावः। 1117 अनुकूलानि कुर्वन्ति किं वोरीकृत्य कारणम् // सर्वथा सर्वमेवेदं गहनं प्रतिभासते / ममाद्यापि न जानेऽहं किमत्र बत कारणम् // एवं च स्थिते / यद्यतीन्द्रियवेत्तारं कंचित्पश्यामि सन्मुनिम् / ततः पृष्ट्वात्मसन्देहमेनं कुयीं विनिर्णयम् // तदेवंविधसङ्कल्यात्मन्देहकलितोऽप्यहम् / तदा तातादिनिर्दिष्टं स्वनाथ तं न दूषये // अथ ते खेचराः सर्वे दिनानि कतिचित्तदा / कनकोदरसंयुक्ताः संस्थिता मम मन्दिरे / अथाह्नादाम्तचोदप्रौणितास्ते यथेच्छया / स्वस्थानमन्यदा प्राप्ता भृत्यभावं प्रपद्य मे // ततो मदनमञ्जर्या साधं मे रतिसागरे / निमनस्यामरस्येव लीलया यान्ति वासराः // वर्धते च तया मार्धमालादोऽमृतदायकः / मद्भावमौलिकासारः प्रेमाबन्धी मनोहरः // तातचिन्तितकार्यस्य प्रणताखिलभूभुजः / न मे तदा विशालाक्षि चिन्तागन्धोऽपि विद्यते // किं च / विद्याधरोपनीतैश्च माल्यभूषादिभिर्मम / संपूर्णसर्वकामवाज्जाता बप्तिसुखासिका // तदेवं लौल्यहौनात्मा प्रविष्टः सुखसागरे / For Private and Personal Use Only