________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नभःस्थिते परानीके यज्जातं तन्निबोध मे // निर्व्यापारं गताटोपं निःशब्दं स्थिरलोचनम् केनचिल्लेप्यतां नौतं स्तम्भित्वा तद्दलद्वयम् // ततो निष्यन्दमन्दाख्यं तत्मैन्य द्वितयं तदा / भूम्याकाशस्थमन्योन्यं चित्रन्यस्तमिवेक्षते // अथ तेषां नभःस्थानां गतोऽहं दृष्टिगोचरम् / समं मदनमञ्जर्या निविष्टो वरविष्टरे / ततोऽस्मदर्शनात्तेषां सर्वषां मनमि स्थितम् / अहो रूपमहो मूर्तिरहो कान्तिरहो गुणाः // अहो धैर्यमहो स्थैये नरस्यास्य महात् नः / अहो मदनमञ्जर्याः पर्यालोचितकारिता // यथायमौदृशो भर्ता ग्टहीतः स्वपरीचया / अमुनैव वयं नूनं स्तम्भिता निजतेजमा || तथाहि / समं मदनमचर्या दृश्यते मुत्कलः स्वयम् / अयं मह वयस्येन राजपुत्रो न जेषकाः / तदुष्टं कृतमस्माभिर्नररत्नं यदौदृशम् / जिघां मितं महापापैः प्राप्तमेतद्धि तत्फलम् // तदेष खामिकोऽग्माकं वयमम्य पदातयः / एवं चिन्तयतां तेषां प्रशान्तो मत्सरानलः // ततस्ते तत्क्षणादेव केनचिन्मुत्कलो कृताः / आगत्य पादयो स्वर्ण पतिता मे नभश्चराः // For Private and Personal Use Only