________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। . 1.76 स्मृतदुश्चेष्टितैः क्रुद्धैच्चिकैरपि ताडितः // अनेकयातनास्थाने खवर्गणावधौरितः / प्राप्तः शारीरसंतापं नरकेब्धिव नारकः / महामोहवशीभूते राज्यभ्रष्टे तथा मयि / यः संजातो मनस्तापः स त्वाख्यातुं न पार्यते // तथाहि / ममेदं विपुलं राज्य मामकौना विभृतयः / अधुनान्ये प्रभोकार इति शोकेन पौडितः // सुखलालितदेहोऽहमधुना बौदृशौ गतिः / सर्वस्य परिभतोऽसमित्यरत्या कदर्थितः // नुम्पन्ति मामकमिदं रत्नवर्णादिकं जनाः / एते हा हा हतोऽस्मोति बाधितो धनमूथा / तदेवं नरकाकारे चारके दुःखपूरितः / तबाहं संस्थितो भने सुचिरं पापकर्मणा // परिवारसमेतस्थ महामोहस्य दोषतः / तथाप्यहं न निविण: संसाराचारुलोचने // क्रोधान्यस्तेषु लोकेषु चित्तकल्लोलदूषितः / रौद्रध्यानानुगो नित्यं भूरिकालमवस्थितः // अथ जीर्ण क्रमेणैव गुडिका मे चिरन्तनी। ततो वितीर्णा मा मचं भवितव्यतयापरा // गतः पापिष्ठवासायां पुरि सप्तमपाटके / अहं तस्याः प्रभावेण जातः पापिष्ठरूपकः / 135 For Private and Personal Use Only