________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.65 कन्ययोः प्रापणेऽचापि तयोरेसेन इतमा // म कर्मपरिणामाख्यस्ते कन्ये दापयिष्यति / धनवाहनराजाय नोऽपरो दापकस्तयोः // दाप्यमाने पुनस्तेन ते स्थानां कन्यके यदा / हेतभावं भजन्येव तदा युमादृशा अपि // एवं च स्थिते। म एव योग्यतां मत्वा कचित्ते दापयिष्यति / कन्ये सुखप्रदे धन्ये धनवाहनभूभुजे // अतो विहाय तचिन्तां स्वाध्यायल्यामतत्परः / विमुक्कावस्तुनिर्बन्धस्तिष्ठार्य त्वं निराकुलः // ततस्तथेति भावेन प्रतिपद्य गुरोर्वचः / स्थितोऽकलङ्को निश्चिन्तस्तदा भने निरासुरः // अहं तु तो ममाश्रित्य महामोहपरिग्रहौ / श्रागत्यागत्य तइत्यैरेकैकेन कदर्थितः // तथाहि / एके गच्छन्ति तइत्याः प्रत्यागच्छन्ति चापरे। अन्ये तिष्ठन्ति मत्पार्श्व किंचिदासाद्य कारणम् / किं चाच बहुनोतन समासात्ते निवेद्यते // भूरिभाषितया वं मां वाचालं मावजीगणः / चित्तवृत्तिमहाटव्यां या नदी मा प्रमत्तताः // तत्तदिनमितं नाम यत्तस्याः पुखिनं पुरा / वर्णितं तत्र चोद्दिष्टश्चित्तविक्षेपमण्डपः // 1:31. For Private and Personal Use Only