________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1042 उपमितिभवप्रपञ्चा कथा / इतश्च / प्रयुक्तः पूर्वमेवासीन्महामोहादिभिर्बली। ज्ञानसंवरणो नाम मत्समौ पे नराधिपः // स हि चारित्रधर्मीयं तिरोधत्ते मदा बलम् / महामोहमहानोकं सर्वदा पोषयत्यलम् // एवं च स्थिते / तहलेनैव निश्चिन्ता निर्नष्टभयकारणाः / स्थिता रिपूनिराकृत्य महामोहादयः सदा // ततः सदागर्म वौक्ष्य प्रत्यासन्नं समागतम् / ज्ञानसंवरण: शौचं लौनलौनो व्यवस्थितः / / प्रथाकलङ्कः संप्राप्तो ध्यानारूढस्य सन्निधौ / गुरोस्तस्य मया सार्ध विहितं पादवन्दनम् // समाप्तध्यानयोगेन धर्मलाभपुरःमरम् / मूरिणा कोविदायेन तेन सम्भाषणं कृतम् // प्रथाकलङ्गपृष्टस्य कुर्वतो धर्मदेशनाम् / तस्य पार्श्व महात्मेष मया दृष्टः सदागमः // ज्ञापितवाकलङ्केन यथा भो घनवाहन / श्राराधनीयः माधूनामेषामेष मदागमः // एते ह्यस्य सदादेशं कुर्वन्ति नतमस्तकाः / एषोऽस्य सरिर्जानौते गुणसम्भारगौरवम् // तदेष ते हितो भट्र धर्माधर्मविवेचकः / अतः मदुपदेशार्थमेव विज्ञातुमर्हसि // For Private and Personal Use Only