________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104. उपमितिभवप्रयचा कथा। तथाहि। थावत्संसारिजीवोऽस्मान् न जानौते महाप्रभुः / विपदस्तावदेवता देवास्माकं रिपूद्भवाः / / यदा तु स विजानीयादस्माकं रूपमञ्जमा / तदा संपोषितास्तेन भवामो रिपुघातकाः / / इयं च दृश्यते देव चित्तवृत्तिमहाटवौ। यथाधुना मनाक् शुभ्रा गाढतामसवर्जिता // तथाई नर्कयामौदं देवोऽसौ सर्वनायकः / अस्मद्विशेषविज्ञानसमोपे ननु वर्तते // वयं हि तामसे मना न दृष्टास्तेन जातचित् / अधुना दर्शनस्यास्ति वैमल्यं तस्य कारणम् // एवं च स्थिते / तं कर्मपरिणामाख्यं पृष्ठा राजानमुत्तमम् / पार्श्व संसारिजीवस्य प्रेष्यतां कोऽपि मानवः // ततोऽनुकूलितस्तेन देव कालेन भूयसा / भविष्यत्येव निर्मिथ्यं मोऽस्मद्दर्शनलालमः // ततश्चारित्रधर्मेण सद्दोधं प्रति भाषितम् / साधु भो गदितं माधु ब्रूहि कः प्रेषणोचितः // ततश्चारित्रधर्माय पदोधेन निवेदितम् / अयं सदागअस्तव देव प्रस्थापनोचितः // बहुश: परिचयस्तस्य यदानेन भविष्यति / तदास्मद्दर्शनाकांक्षा तस्य संपत्स्यते ध्रुवम् // For Private and Personal Use Only