________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 983 उपदेशः शुभो नित्यं दर्शनं धर्मचारिणम् / स्थाने विनय इत्येतत् साधुसेवाफवं महत् // तथा। मैत्रौं भावयतो नित्यं शुभो भावः प्रजायते / ततो भावोदकाजन्तोईषानिरुपशाम्यति // तथा। अशेषदोषजननी निःशेषगुणघातिनी। श्रात्मीयग्रहमोक्षण तृष्णा हि विनिवर्तते / एवं गुणगणोपेतो वि द्धात्मा स्थिराशयः / तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य माधकः // ततोऽनेनापि मुनिना ब्राह्मणाकारधारकैः / अहं बोधित इत्युक्त माधुभिः करुणापरैः // ततोऽमुनानुसारेण यदनेन कथानके / प्रागुतं तत्वयं योज्यं स्पष्टत्वान्नाभिधीयते / अपि च / कर्ममधरताः सर्वे भद्राविरतजन्तवः। भवापानकमध्येऽपि साधवस्तत्यराङ्मुखाः // तैरेव यत्नतः माधुः कर्ममद्यानिवारितः / ततः प्रव्रजितो जात इदं वैराग्यकारणम् // प्रव्रज्यया च तत्कर्म मद्याजौर्णमयं मुनिः / जरयित्वा भवापानावहि तो भविष्यति // किं च / For Private and Personal Use Only