________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 उपमितिभवप्रपञ्चा कथा / दत्तं तस्यै महादानं तेन संतुष्टचेतमा // प्रवर्तितो महानन्दः कृतं बन्धनमोचनम् / प्रद्दष्टं निखिलं राज्यं वादितानन्दमर्दलम् // गानपानमहादानखादनप्रवणे जने / अथ निर्वर्तितप्राये तत्र जन्ममहोत्सवे // ज्योतिःशास्त्रे छतोद्योग: सिद्धार्थो नाम विश्रुतः / पृष्टो जीमूतराजेन महासांवत्सरस्तदा // यथा / निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशौ ग्रहावलोकनेति / सिद्धार्थनोक्तं / यदाज्ञापयति देवः / समाकर्णयत तावत् / अयमानन्दः संवत्सरः / अतः शरत्कालः / मासः कार्त्तिकः / तिथिईितीयेऽति भद्रा। वारो वृहस्पतिः / नक्षत्रं कृत्तिका / राशिषः / योगो तिः / सौम्यग्रहनिरीक्षितं लग्नं / उच्चस्थानस्थिताः सर्व ग्रहाः / अर्ध्वमुखा होरा / एकादशस्थानस्थिताः शुभतराः पापग्रहा इति / अपि च / .. जातोऽयमौदृशे राशौ कुमारो देव सुन्दरे / येनास्य संपदस्तुङ्गा भविष्यन्ति न संशयः // राजा भिहितं / आर्य क एते राशयः के वामोषां गुणा इति श्रोतुमिच्छामि / सिद्धार्थनोतं / देव समाकर्णय / राशयस्तावदेते मेषो वृषो मिथुनः कर्कः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मौन इति / एतेषाममौ गुणाः / तद्यथा / चक्षुलीलः सदारोगी धर्मार्थ कृतनिश्चयः / पृथजः कृतज्ञश्च विक्रान्तो राजपूजितः // For Private and Personal Use Only