________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तस्यां पापिष्ठवासायां पुर्या सप्तमपाटके / तत्रानुभूय दुःखानि भूयो भूयो वरानने / भ्रान्तोऽनन्तं पुनः कालं सर्वस्थानेषु सर्वथा // न तदुःखं जगत्यस्ति यत्र प्राप्तं मयानघे / अन्यदा कृतमत्कर्मा प्रोतोऽहं भार्यया तया // यथा / अस्त्यार्थपुच विख्यातं मातादं नाम पत्तनम् / बहिरङ्ग त्वया तत्र गत्वा स्थेयं यथा पुरा / / मयोत / यदाज्ञापयति देवौ / ततः कृतस्तया मम पुण्योदयः सहचरः / वितीर्णा गुडिका / विहितं मया प्रस्थानमिति / यदिदमसुलभं भो लब्धमेभिर्मनुष्येबहुविधभवचारात्यन्तरौणैनरत्वम् / तदपि नयनलोला मैथुनेच्छापरौता लघु धनबजलुब्धा नाशयन्येव मूढाः // ततश्च / विगलितास्त इमे नरभावतः प्रबखकर्ममहाभरपूरिताः / मततदुःखमटन्ति पुनः पुनः मकलकालमनन्तभवाटवीम् // तदिदमत्र निवेदितमञ्जमा जिनवचो ननु भव्यजना मया / इदमवेत्य निराकुरुत द्रुतं नयनसागरमैथुनलोलताम् / इत्युपमितिभवप्रपञ्चायां कथायां लोभमैथुनचक्षु रिन्द्रियविपाकवर्णनः षष्ठः प्रस्तावः समाप्तः॥ For Private and Personal Use Only