________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NO पछः प्रस्तावः। ततश्च / अधमस्यापि यद्राज्यं तद्राज्यं परमार्थनः / अस्माकमेव संपवं देव नास्यत्र संशयः // केवलं न प्रवेशोऽस्य दातव्यो भुक्तिमण्डले / प्रविष्टो हि विजानीयादास्माकीनं विचेष्टितम् // अस्ति किंचनमाचं हि वौर्यमस्य दुरात्मनः / बहिष्करणमेवातो युक्त मात्र प्रवेशनम् // ततः प्राह महामोहो यः स्थादस्य बहिष्कृतौ / उपायः कोऽपि निःशेष नमार्यो वामहति // ततः प्राह महामन्त्री देव विज्ञापितं मया / यथासावधमो राजा प्रतिबद्धोऽर्थकामयोः // ततः सर्वेऽपि संभूय वयं तं धनकामयोः / भासक्तं बाह्यदेशेषु धारयामो बहिष्कृतम् // ततः / एवं विधीयतामार्य महामोहेन जल्पितम् / बहिष्करणकामेन मज्जौभूताश्च तस्य ते // अथास्ति मंन्त्रिणस्तस्य सुता परमयोगिनौ / दृष्टि म विशालाक्षी मा तत्रेदमभाषत / देव ययं जिताशेषदेवदानवमानुषाः / मोऽधमः कियती भाचा यतस्तं प्रति गामुकाः // तद्दीयतां ममादेशो थेन तं वशवर्तिनम् / एकाग्यहं करोम्येषा थुमाकं किं विचिन्तया / For Private and Personal Use Only