________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 उपमितिमवध पञ्चा कथा / खादत पिषताथ गायत प्रसभं नृत्यत चार है जनाः // एवं च तेषु भिलपलिप्रायेषु महामोहसम्बन्धिषु नगरयामाकरादिषु प्रवृत्तं महावर्धनकं / कारिता हट्टशोभाः / समुच्छायिता ध्वजपताकाः / प्रभविष्याम इति समुल सिता घातिकर्मचरटाः / हरियाम इति परितुष्टा इन्द्रियतस्कराः / लषयिष्याम इति प्रमोदिताः कषायलषकाः / लुष्टयिष्याम इति दृष्टा नोकषायलुएटाकाः / उपल्लावयिष्याम इति समानन्दिताः परोषहचारभटाः / विवासयियाम इति विजृम्भिता उपसर्गदुष्टभुजङ्गाः / उपहसिध्याम इति तरलिताः प्रमादषिड्गलोकाः / अपि च / येऽन्यदापि मदेनाधा महामोहादयः मदा / निकृष्टराज्ये संजाते किं किं किं ते न कुर्वते // तदिदं तावदाख्यातं महामाहादिचेष्टितम् / चारित्रधर्मसैन्येऽपि यब्जातं तमिबोध मे। तेऽपि चारित्रधर्माद्याः श्रुखा तां राज्यघोषणाम् / कौदृक् स्थादेष राजेति 'पर्यालोंचमुपागताः // सद्दोधमन्त्रिणा प्रोक देव विज्ञातमेव ते / निकृष्टस्थास्य यद्रूपमेकान्तेन दुरात्मनः // अयं दुरात्मा राज्यस्य नामाप्यस्य न बुध्यते / न चास्मान् गणयत्येष शचुभूतांश्च मन्यते // पक्षपातान्महामोहसाधनं वर्धयत्यलम् / खराज्यलोकदेवानां वार्तामपि न पृच्छति // ततश्च / For Private and Personal Use Only