________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 08 उपमितिभवप्रपञ्चा कथा / विज्ञातेऽपि महाभागो मदीये खलचेष्टिते / तथापीदृक्षचित्तोऽसौ निर्विकारा हि माधवः // स तु देवो महाकोपादाकर्ण्य हरियाचनाम् / मयि गाढतरं रुष्टस्तं प्रतोदमभाषत / मुग्धोऽमि त्वं महाभाग गच्छाभिमतपत्तनम् / अहमस्थानुरूपं तु करोम्येष दुरात्मनः // ततचोललमानेन तत्रागाधे महोदधौ / प्रास्फोटितस्तथा भने यथावनितलं गतः // ततस्तमोन्धपाताले नरकेष्विव नारकः / स्थित्वाहं पुनरुद्भूतो भद्रे पापेन कर्मणा // स तु देवो मृतं मत्वा मां खस्थानमुपागतः / वेलाकूले च संप्राप्तं हरेः पोतदयं क्रमात् // इतशानन्दनगरे स केसरिनराधिपः / मृतो हरिकुमारण विज्ञातो जनवार्तया // ततो हरिकुमारेण शीघ्रं गत्वा सबान्धवम् / भद्रे तत्पैटकं राज्यं क्लेशहीनमधिष्ठितम् // यतो निवेदितो वसुमत्या समस्तोऽपि बान्धवानां कमलसुन्दरौत्तान्तः स्थापितः केशरिराजपुत्रतया हरिकुमारः ततोऽनुरक्ताः सर्वेऽपि हरिकुमारे लोकाः परिणतं राज्यं / संजातो भूरिमण्डलाधिपतिर्निजपुण्यप्रारमारेण / समर्पितं च मदीयपितईरिशेखरस्य तन्मामकं रत्नबोहित्थं हरिकुमारणेति // अतश्चाहं तथा पातालतलादुन्नमस्ततः प्रेर्यमाण: पोलकू-- For Private and Personal Use Only