________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / निवेदयावयोर्चाले कामि त्वं वरलोचने / . किमर्थं वा वमस्यत्र गुहाकोटरचारिणी // एतच्च वचनं श्रुत्वा मा शोकभरपीडिता / मूर्छया पतिता बाला भूतले नष्टचेतना // ततो वायुप्रदानाद्यैर्मन्देनाश्वामिता पुनः / स्थूलमुक्ताफलानौव माश्रुबिन्दूनमुञ्चत // भने किमेतदित्येवं पृच्छतश्च पुनः पुनः / मन्दस्य साब्रवीदेवं स्नेहगढ्दया गिरा // नाथ मे मन्दभाग्यायाः किं स्तोकं शोककारणम् / युवयोर्विस्मृतास्मीति याहं स्वखामिनोरपि // अहं भुजङ्गता नाम भवतोः परिचारिका / युवाभ्यामेव देवाभ्यां गुहायां विनियोजिता // अस्यां हि भवतोरस्ति प्राणनामा वयस्यकः / तिष्ठामि युभदादेशात्तस्याहं परिचारिका / चिरकालप्ररूढं हि युक्यास्तेन संगतम् / यथा चेदं तथा नाथ समाकर्णय माम्प्रतम् // पुरोऽसंव्यवहाराख्ये पुराभृद्भवतोः स्थितिः / ततः प्रचलितौ कर्मपरिणामस्य शासनात् // गतावेकाक्षसंस्थाने विकलाचे पुनस्ततः / भूरिलोकाकुलं तत्र विद्यते पाटकत्रयम् // द्वितीये पाटके मन्ति बहवः कुलपुत्रकाः / तत्र त्रिकरणे नाम तन्मध्ये मंस्थितौ युवाम् // For Private and Personal Use Only