________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 801 बहिर्मलधरोऽप्यत्र निर्मलो मानवेश्वर // तदिदं भावमालिन्यमविचार्यात्मनि स्थितम् / अहं हा इसितः केन कारणेन पुरा जनाः / / सुभगोऽपि जगत्यत्र सद्धर्मनिरतो नरः / विवेकिनां समस्तानां यस्मादत्यन्तवल्लभः / / सुरासरममायुकं जमदेतच्चराचरम् / बन्धुभृतं हि वर्तत सद्धर्मगतचेतमाम् // तस्मात्माधुः सदाचारो लोके सौभाग्यमर्हति / तत्र ये कुर्वते द्वेषं पापिष्ठास्ते नराधमाः // पुमानधर्मभूयिष्ठो दुर्भगो भावतो मतः / निन्दन्ति तं यतः सर्व महाराज विवेकिनः // तस्मात्यापे रतः प्राणी लोके दौर्भाग्यमर्हति / तमप्यत्र प्रशंसन्ति ये ते पापा नराधिप // एवं च स्थिते / धार्मिको मुनिवेषेण प्रकटोऽपि पुरा जनैः / दुर्भगैः सुभगोऽप्यस्मि केन कार्येण निन्दितः // एवं च स्थिते महाराज य इमे जिनवचनामृतबहिर्भताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते दृढकर्मसन्तानरग्वा पौद्यन्ते विषयासन्तोषबुभुक्षया शव्यन्ति विषयाशापिपास्या खिद्यन्ते निरन्तरभवचक्रधमणेन सततोपतप्ताः कषायपश्मिणा ग्टह्यन्ते मिथ्यात्वमहाकुष्ठेन तुद्यन्ते परेाशूलेन जौर्यन्ते दीर्घसंमारावस्थानेन दन्दान्ने रागमहाज्वरेण अन्धी क्रियन्ते कामकाच J01 For Private and Personal Use Only